AIAPGET Notes on Sushruta Samhita Sutrasthana 15th Adhyaya- (१५. दोषधातुमलक्षयवृद्धिविज्ञानीयाध्याय)
१५. दोषधातुमलक्षयवृद्धिविज्ञानीयाध्यायः
अथातो दोषधातुमलक्षयवृद्धिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान्धन्वन्तरिः ||२||
अथातइत्यादि| दोषा वातादयः, धातवो रसादय उपधातवश्च, मलाः पुरीषादयः; तेषां क्षयवृद्धिविज्ञानं यस्मिन्नस्ति स तथा| अन्येतु ‘मलशब्दाग्रे आदिशब्दो लुप्तो द्रष्टव्यः, तेन स्तन्यार्तवगर्भादयोऽपि धातवो गृह्यन्ते’ इति वदन्ति||१-२||
दोषधातुमलमूलं हि शरीरं, तस्मादेतेषांलक्षणमुच्यमानमुपधारय ||३|| Ref.
कुतःपुनरेषां क्षयवृद्धी वक्तव्ये इत्याह- दोषेत्यादि| हि यस्मादर्थे, यस्माच्छरीरंदोषादिमूलं; यथा वृक्षादीनां सम्भवस्थितिप्रलयेषु मूलं प्रधानं, तथा शरीरस्य वातादय इत्यर्थः||३||
तत्र [१] प्रस्पन्दनोद्वहनपूरणविवेकधारणलक्षणो वायुःपञ्चधा प्रविभक्तःशरीरं धारयति (१) |४|
दोषधातुमलादीनांसाम्यक्षयवृद्धयः स्वभावाख्यलिङ्गेन कर्माख्यलिङ्गेन च ज्ञेयाः, तस्मात्साम्यादिज्ञाने एतल्लिङ्गद्वयं वाच्यं; तथाहि [२] - वातस्य स्वभावाख्यं लिङ्गं ‘रूक्षः शीत’(नि. अ. १) इत्यादिवातव्याधौ वक्ष्यते; पित्तस्य तु ‘पित्तं तीक्ष्णं द्रवं’(सू. अ. २१) इत्यादिव्रणप्रश्ने; तथा कफस्य ‘श्लेष्मा शीतो गुरुः’(सू. अ. २१) इत्यादि; एवं धातुमलयोरपि स्वभावाख्यं लिङ्गं दर्शनीयम्;
इहतु दोषादीनां कर्माख्यं लिङ्गं दर्शयन्नाह- तत्र प्रस्पन्दनेत्यादि| प्रस्पन्दनं शरीरस्य चलनम्, इदं व्यानस्य कर्म; उद्वहनमिन्द्रियार्थानां धारणम्, उदानस्य कर्म; पूरणमाहारेण, प्राणस्य कर्म; विवेको रसमूत्रपुरीषाणां पृथक्करणं, समानस्य कर्म; शुक्रमूत्रादीनां वेगकाले कर्षणमवेगकाले धारणम् [३] , अपानस्य| पञ्चधा प्रविभक्त इति प्राणोदानसमानव्यानापानभेदेन| अन्ये तु सामान्यं सर्ववायूनांप्रस्पन्दनादिकर्म आहुः; प्रस्पन्दनं श्वासप्रश्वासादिभावेन चलनम्, उद्वहनं दोषधातुमलानामित इतो नयनं, पूरणम् आहाररसादीनां स्वेषु स्वेष्वाशयेषु नयनं, विवेकः पूर्ववदत्रापि, धारणं शरीरयन्त्रस्य [४] | कथमित्याह- पञ्चधा प्रविभक्त इत्यादि||४(१)||
रागपक्त्योजस्तेजोमेधोष्मकृत्पित्तंपञ्चधाप्रविभक्तमग्निकर्मणाऽनुग्रहं करोति;
(२) |४|
प्रकृतिस्थस्यपित्तस्य कर्म निर्देष्टुमाह- रागेत्यादि| कृच्छब्दो रागादिभिः प्रत्येकं सम्बध्यते| रागकृत् रसस्य रञ्जकाग्निसञ्ज्ञं पित्तं; पक्तिकृत् आहारस्य पाचकाग्निसञ्ज्ञं पित्तं; ओजःकृत् साधकाग्निसञ्ज्ञं पित्तम्, ओजो हृदिस्थं सोमात्मकं; तेजःकृत् आलोचकाग्निसञ्ज्ञं पित्तं, तेजो दृष्टिः, तदुक्तं- “तेजो दृष्टिरिति ख्यातं तेजः शुक्रं प्रकीर्तितम्”- इति; मेधाकृत् मेधा ग्रन्थाकर्षणसामर्थ्यं, तस्या अपि साधकाग्निसञ्ज्ञमेव पित्तं कारकम्; ऊष्मकृत् त्वक्स्थं पित्तं भ्राजकाग्निसञ्ज्ञम्, ऊष्मा शरीरस्यौष्ण्यम्| पञ्चधा प्रविभक्तमिति पाचकरञ्जकसाधकालोचकभ्राजकभेदेन| अग्निकर्मणेति रागादि यदग्निकर्म तेन कृत्वेत्यर्थः| अनुग्रहम् उपकारं करोति, ‘शरीरस्य’ इत्यनुवर्तते| अन्ये तु तेजःशब्देन वर्णप्रकाशिनींत्वक्स्थां दीप्तिमाहुः; “इदं च रागादिकर्म सामान्यंसर्वपित्तानाम्” इतिवदन्ति||४(२)||-
सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्यकृच्छ्लेष्मा [५] पञ्चधाप्रविभक्तउदककर्मणाऽनुग्रहं करोति ||४||
प्रकृतिस्थस्यकफस्य कर्म निर्दिशन्नाह- सन्धीत्यादि| कृच्छब्दः सन्धिसंश्लेषणादिभिः प्रत्येकं सम्बध्यते| सन्धिसंश्लेषणकृत् सन्धिबन्धनं करोति; यद्यपि सन्धिसंश्लेषणं श्लेष्मकर्म व्रणप्रश्नेऽप्युक्तं, तथाऽपीह तद्वचनं व्यानस्य सन्धिचारित्वात्तस्यापि सन्धिश्लेषणं कर्मेति शङ्कानिरासार्थम्| स्नेहनकृदिति शरीरस्य स्नैग्ध्यं करोति, स्निग्धत्वात्| रोपणकृत् व्रणस्य, सौम्यत्वात्| पूरणकृत् शरीरस्य, बहुत्वान्मूर्तत्वाच्च| बलकृत् पुष्टिकृत्| स्थैर्यकृत् त्रिकसन्धिदार्ढ्यकृत्, कफस्थानानां स्वकार्यसामर्थ्यं वा| पञ्चधा प्रविभक्त आशयभेदेन आमाशयोरःशिरःकण्ठसन्धिभेदेनेत्यर्थः| अन्ये तु तस्यैव कफस्याशयभेदेनपञ्चधाभिन्नस्य श्लेषकक्लेदकबोधकतर्पकावलम्बकनामान्याहुः [६] | केचिदत्र कफकर्मसु बृंहणं तर्पणं च पठन्ति, व्याख्यानयन्तिच- “बृंहणः शरीरस्य, द्रवत्वमूर्तिमत्त्वाभ्यां; तर्पणः तृप्तिजनको धातूनाम्”||४||
रसस्तुष्टिंप्रीणनं रक्तपुष्टिं चकरोति,
रक्तं वर्णप्रसादं मांसपुष्टिं जीवयति च,
मांसं शरीरपुष्टिं मेदसश्च, मेदः स्नेहस्वेदौ दृढत्वं पुष्टिमस्थ्नां च, अस्थीनि देहधारणं मज्ज्ञः पुष्टिं च, मज्जा स्नेहं बलं शुक्रपुष्टिं पूरणमस्थ्नां च करोति, शुक्रं धैर्यं च्यवनं [७] प्रीतिं देहबलं हर्षं बीजार्थं च; (१) |५|
इदानींधातूनां प्रकृतिस्थानां प्राकृतं कर्म निर्दिशन्नाह- रसस्तुष्टिमित्यादि| धैर्यं शौर्यं शूरत्वम्, अत एव क्लीबाअधीराः; च्यवनं शीघ्रत्वेनावस्रंसनं, प्रीतिं स्नेहं प्रमदासु; देहबलमुत्साहोपचयलक्षणं; हर्षं पुनरुत्कण्ठाजननं प्रमदास्वेव; बीजार्थं चेति बीजप्रयोजनं, यथा- ऋतुक्षेत्रादिसम्पत्तौ बीजमङ्कुरजननं स्यात्, एवं शुक्रमपि गर्भजनकमित्यर्थः| अन्ये त्वन्यथा पठन्ति- “रसः प्रीणयति, रक्तं जीवयति, मांसं लेपयति, मेदः स्नेहयति, अस्थि धारयति, मज्जा [८] अस्थीनि पूरयति, शुक्रं धैर्यच्यवनं प्रीतिदेहबलहर्षबीजार्थकृत्”- इति; व्याख्यानयन्ति च- “रसः प्रीणयति धातूंस्तर्पयतीत्यर्थः, रक्तं जीवयति प्राणानुवर्तनं करोति, मांसं लेपयति अस्थ्यादीन्, मेदः स्नेहयति स्नेहात्, अस्थि धारयति शरीरमित्यर्थः, धैर्यच्यवनमिति धैर्यस्य च्यवनं धैर्यच्यवनं च्युतिः प्रमदासु विषय इत्यर्थः”| अयं पाठो निबन्धकारैः सादरं पठितः||५(१)||
पुरीषमुपस्तम्भं [९] वाय्वग्निधारणं च, बस्तिपूरणविक्लेदकृन्मूत्रं, स्वेदः क्लेदत्वक्सौकुमार्यकृत्; (२) |५|
अतऊर्ध्वं मलानां प्राकृतं कर्मोच्यते- पुरीषमित्यादि| ‘करोति’ इत्यनुवर्तते| उपस्तम्भः अवष्टम्भः शरीरधारणमित्यर्थः| केचित् पुरीषकर्मसु प्रीणनं पठन्ति, न त्वाचार्याः| कश्चिदाचार्योऽत्रोपस्तम्भंन पठति| बस्तिर्मूत्राशयः, तस्य पूरणं, विक्लेदमार्द्रत्वं च, मूत्रं करोतीत्यर्थः| अन्ये तु ‘क्लेदविवेकजं बस्तिपूरणकृन्मूत्रं’ इतिपठन्ति, क्लेदविवेकजमिति क्लेद आर्द्रत्वं स चाहारस्य, तस्यविवेकात् [१०] पृथक्त्वाज्जातं मूत्रम्| केचित् ‘स्वेदः क्लेदयति’ इति पठन्ति||५(२)||-
रक्तलक्षणमार्तवं [११] गर्भकृच्च, गर्भो गर्भलक्षणं, स्तन्यं स्तनयोरापीनत्वजननं जीवनं चेति ||५||
अतउपधातूनां प्राकृतं कर्माह- रक्तलक्षणमित्यादि| रक्तलक्षणमार्तवमिति रक्तस्य यानि लक्षणानि तान्यस्य सम्भवन्तीति स्वभावकथनम्| गर्भकृच्चेति प्राकृतकर्मकथनम्| चकाराद्रक्तकर्मापि जीवनसञ्ज्ञं करोति| केचिदाचार्या “रक्तलक्षणमार्तवं यथोक्तमकृत्रिमं गर्भकृच्च” इति पठन्ति, व्याख्यानयन्ति च- “यथोक्तमिति ‘शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम्’- (शा. अ. २) इत्याद्युक्तलक्षणम्, अकृत्रिममिति वातपित्तकफैरधःप्रसृतैरष्टधाऽऽर्तवदूषकैरसृग्दररूपतयावा कृतं कृत्रिमं, न कृत्रिममकृत्रिमं शुद्धं, गर्भकृद्भवतीत्यर्थः”| गर्भोगर्भलक्षणमिति ‘स्तनयोः श्यावमुखता’ (शा. अ. ३) इत्यादिकं ‘करोति’ इत्यध्याहारः| स्तन्यमित्यादि आपीनत्वजननं मांसलत्वजननम्| जीवनं बालानां, तेषामेव स्त्रीक्षीरसात्म्यत्वात्||५||
तत्र [१२] विधिवत्परिरक्षणं कुर्वीत ||६||
प्रकृतिस्थानांरक्षणमाह- तत्रेत्यादि| तत्रेति तेषु वातादिषु प्रकृतिस्थेषु| विधिवत् विधिनोपपन्नं; विधिरत्र स्वास्थ्यवृत्तिकः [१३] | परिरक्षणं सर्वतो रक्षणम्||६||
अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः |
तत्र, वातक्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहर्षो मूढसञ्ज्ञता च, पित्तक्षये मन्दोष्माग्निता निष्प्रभता च, श्लेष्मक्षये रूक्षताऽन्तर्दाह आमाशयेतरश्लेष्माशयशून्यता [१४] सन्धिशैथिल्यं (तृष्णा [१५] दौर्बल्यं प्रजागरणं) च ||७||
अतऊर्ध्वमित्यादि| केचिदत्र “क्षयः पुनरेषामतिसंशोधनातिसंशमनवेगविधारणासात्म्यान्नमनस्तापव्यायामानशनातिमैथुनैर्भवति”- इतिक्षयकारणानि पठन्ति| “एतानि प्रायो वायोर्वृद्धिं कुर्वन्ति, पित्तकफयोस्तु क्षयमिति; तस्माद्यथासम्भवं कारणं ज्ञेयं; नास्मिन् पाठे प्रयोजनम्” इत्याचार्या वदन्ति| तत्रेत्यादि| मन्दचेष्टता [१६] मन्दकायव्यापारता| अप्रहर्षः अतुष्टिः| मूढसञ्ज्ञता नष्टसम्यग्ज्ञानता| चकारात् प्राकृतकर्महानिस्तद्विरोधिनश्चश्लेष्मणः प्राकृतकर्मवृद्धिरिति चकारः समुच्चिनोति| एवं पित्तादिक्षयेष्वपि चकारप्रयोजनं ज्ञेयम्| पित्तक्षय इत्यादि निष्प्रभता प्रभाहानिः| श्लेष्मक्षय इत्यादि आमाशयो यत्राशितादि पच्यते, इतराशया उरःकण्ठशिरःसन्धय इति; श्लेष्माशयशून्यतेति कृते सति आमाशयो लब्धः, यदामाशयस्य पृथगुपादानं तद्विशेषेण शून्यताख्यापनार्थम्| केचिच्छिरःशब्दं सूत्रे पठन्ति, शिरसोऽपि सर्वेन्द्रियाधिष्ठानत्वेन प्राधान्यात् पृथगभिधानम्||७||
तत्र स्वयोनिवर्धनान्येव [१७] प्रतीकारः ||८||
दोषक्षयेचिकित्सामाह- तत्रेत्यादि| स्वयोनिवर्धनान्येवेति शीतरूक्षादीनि| प्रतीकारश्चिकित्सितम्| न पुनः स्वयोनिवर्धनान्यपिकटुकादीनि, कुतः? भूयस्त्वेनान्यदोषप्रकोपणत्वात्| तथाचोक्तं- “वातक्षये शीतरूक्षैर्न त्वन्यैः कटुकादिभिः| पित्तक्षयेऽपि कटुकैरुष्णैर्न लवणादिभिः|| क्षीरादिभिः स्निग्धशीतैः प्रतिकुर्यात् कफक्षये”- इति| अन्ये तु व्याख्यानयन्ति- “स्वयोनिवर्धनानीति स्वयोनिरात्महेतुः; तत्र वायोर्वायुरेवहेतुः, पित्तस्याग्निर्हेतुः, कफस्य हेतुरापः; वातक्षये वातवर्धनानि, पित्तक्षये पित्तवर्धनानि, कफक्षये कफवर्धनानि” इति| “कफस्य योनी रसः, पित्तस्य रक्तम्” इत्यपरे; रसरक्तयोरपि वर्धनान्याप्यतैजसद्रव्याणीतिस एवार्थः||८||
रसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणितक्षयेत्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं च, मांसक्षयेस्फिग्गण्डौष्ठोपस्थोरुवक्षःकक्षापिण्डिकोदरग्रीवाशुष्कता रौक्ष्यतोदौ गात्राणां सदनं धमनीशैथिल्यं [१८] च, मेदःक्षयेप्लीहाभिवृद्धिः [१९] सन्धिशून्यता रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षयेऽस्थिशूलं [२०] दन्तनखभङ्गो [२१] रौक्ष्यंच, मज्जक्षयेऽल्पशुक्रतापर्वभेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्रक्षयेमेढ्रवृषणवेदनाऽशक्तिर्मैथुने चिराद्वा प्रसेकः प्रसेके चाल्परक्तशुक्रदर्शनम् [२२] ||९||
इदानींधातुक्षयं दर्शयति- रसक्षय इत्यादि| हृच्छब्दः पीडादिभिः [२३] शून्यतान्तैः प्रत्येकं सम्बध्यते| तृष्णा उदकपानाभिलाषः| चकारप्रयोजनं [२४] दोषक्षयप्रस्तावे दर्शितम्| अन्ये तु “रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णा च” इति पठन्ति, व्याख्यानयन्ति च- “शोषः शरीरस्य, शून्यता आमाशयस्य मनसो वा इति,” शेषंसमम्| शोणितक्षय इत्यादि| अम्लशीतप्रार्थनेति [२५] शोणितक्षये सति वातवृद्धौ तत्प्रत्यनीकाम्लरसेच्छा, तथा रक्तस्य द्रवत्वात्तत्क्षये तेजोवृद्धौ शीतप्रार्थनाऽपि; केचित् “अग्नीषोमीयत्वाद्रक्तस्य तत्तुल्यगुणयोरम्लशीतयोः प्रार्थना [२६] ” इति वदन्ति| चकाराद्वह्निमान्द्यादिकं च शोणितवर्णनीयोक्तमप्यत्र द्रष्टव्यम्| मांसक्षय इत्यादि| स्फिचौ कटिप्रोथौ, गण्डौ गल्लौ, उपस्थो योनिः, ऊरुः लोके ‘जङ्घा’ इति व्याख्याता, वक्षः उरः, पिण्डिका जानुगुल्फयोरन्तरं; शुष्कशब्दः स्फिगादिभिः प्रत्येकं सम्बध्यते| मेदःक्षय इत्यादि रौक्ष्यं त्वचः| मेदुरमांसप्रार्थनेति मेदुरं स्निग्धतमं; प्रार्थना अभिलाषः| अस्थिक्षय इत्यादि| रौक्ष्यं देहस्य दन्तनखानां च; दन्तादीनामस्थिमयत्वाद्भङ्गः [२७] | मज्जक्षय इत्यादि| पर्वभेदो ग्रन्थिपीडा; अस्थिशून्यता रिक्तता, पूरणाभावात्| शुक्रक्षय इत्यादि| चिराद्वा प्रसेक इति कथञ्चित् प्रवृत्तावपि चिरकालेन क्षरणम्; अल्परक्तशुक्रदर्शनं शुक्रं क्षीणं मज्जमिश्रमल्परक्तत्वमृच्छति; अन्ये तु “अल्पशुक्ररक्तदर्शनमिति धातुक्षयात् कुपितो वायुः शोणितमल्पशुक्रमिश्रं निःस्रावयति” इति; मेढ्रवृषणवेदनेति शुक्रस्य सर्वशरीरव्यापिनोऽपि विशेषाधारत्वान्मेढ्रवृषणनिर्देशः||९||
तत्रापि स्वयोनिवर्धनद्रव्योपयोगः (प्रतीकारः [२८] ) ||१०||
चिकित्सासूत्रंनिर्दिशन्नाह- तत्रापीत्यादि| स्वयोनिवर्धनमपि समानेन द्रव्येण समानगुणेन समानगुणभूयिष्ठेन वा| समानेन द्रव्येण यथा- रक्तं रक्तेन वर्धते, मांसं मांसेन, मेदो मेदसा, अस्थि तरुणसञ्ज्ञकेनास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण; समानगुणेन यथा- रक्तक्षये तैजसद्रव्योपयोगः, तेजोगुणभूयिष्ठद्रव्योपयोगोवेत्यादि बोद्धव्यम्| द्रव्यग्रहणमुपलक्षणं, तेन कर्मापि यद्यस्य धातोरभिवृद्धिकरं तत्क्षये तत् सेव्यम्| तत्र स्वयोनिद्रव्याणामवबोधार्थंधातुमलोपधातुषु श्लोकाः कथ्यन्ते- “यद्यपि पञ्चभूतानां वाच्यः पाको द्विधा पुनः| तथाऽप्यपां प्रधानत्वाद्रसः सौम्योऽभिधीयते|| अतिरिक्ता गुणा रक्ते वह्नेर्मांसे तु पार्थिवाः| मेदस्यम्बुभुवोरस्थ्निपृथिव्यनिलतेजसाम्|| मज्ज्ञि शुक्रे च सोमस्य [२९] मूत्रेऽम्बुशिखिनोर्गुणाः| भुवो विश्यार्तवे त्वग्नेः प्रस्वेदस्तन्ययोरपाम्|| इति धातुमलेषूक्ता गुणाः प्राधान्यतः स्थिताः| प्रायेण भूगुणा गर्भे स्तोका ह्यन्यगुणा [३०] अपि”- इति||१०||
पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोरूर्ध्वगमनं कुक्षौ सञ्चरणं च, मूत्रक्षये बस्तितोदोऽल्पमूत्रता च; अत्रापि स्वयोनिवर्धनद्रव्योपयोगः | स्वेदक्षये स्तब्धरोमकूपता त्वक्शोषः स्पर्शवैगुण्यं [३१] स्वेदनाशश्च; तत्राभ्यङ्गः स्वेदोपयोगश्च ||११||
मलक्षयंदर्शयन्नाह- पुरीषक्षय इत्यादि| कुक्षिरत्र जठरम्| अत्र चिकित्सासूत्रं निर्दिशन्नाह- अत्रापीत्यादि| पुरीषक्षये माषकुल्माषादीनां, मूत्रक्षये इक्षुत्रपुसादीनामुपयोगः| स्वेदक्षय इत्यादि| स्पर्शवैगुण्यं स्पर्शहानिः| चिकित्सामाह- तत्राभ्यङ्ग इत्यादि| चकारात् स्वेदजननकुक्कुटवराहादिमांसोपयोगश्चाभ्यन्तरोलभ्यते||११||
आर्तवक्षये यथोचितकालादर्शनमल्पता वा योनिवेदनाच; तत्रसंशोधनमाग्नेयानां च द्रव्याणां विधिवदुपयोगः |
स्तनक्षये स्तनयोर्म्लानता स्तन्यासम्भवोऽल्पता वा; तत्रश्लेष्मवर्धनद्रव्योपयोगः |
गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च; तत्रप्राप्तबस्तिकालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोगश्चेति ||१२||
उपधातुक्षयमाह- आर्तवक्षय इत्यादि| यथोचितकालो मासि मासि त्र्यहस्रवणम्| चिकित्सामाह- तत्र संशोधनमित्यादि| “संशोधनमिह [३२] सामान्यम्” इति केचित्; “संशोधनमिह वमनं न विरेकः” इत्यपरे, कुतः? विरेचनेन हि पित्तक्षयादार्तवस्य क्षय एवस्यादिति, वमनेन तु सौम्यधातौ निर्हृतेआग्नेयधातौ वृद्धे आर्तवमाप्याय्यते| आग्नेयानां च द्रव्याणामिति तिलमाषसुराशुक्तादीनाम्| स्तन्यक्षय इत्यादि| म्लानता अनुन्नतिः| चिकित्सामाह- तत्र श्लेष्मवर्धनेत्यादि| स्तन्यस्य रसजत्वात्| गर्भक्षय इत्यादि| अत्र चिकित्सामाह- तत्रेत्यादि| प्राप्तबस्तिकालाया इति प्राप्ताष्टममासाया इत्यर्थः| मेद्यान्नोपयोग इति स्निग्धान्नोपयोगः; “मेध्याण्डोपयोग” इत्यन्येपठन्ति, “मेध्याण्डानि वृष्याण्डानि, बस्तमत्स्याण्डादीनि” इतिच व्याख्यानयन्ति||१२||
अत ऊर्ध्वमतिवृद्धानांदोषधातुमलानांलक्षणंवक्ष्यामः |
वृद्धिः पुनरेषांस्वयोनिवर्धनात्युपसेवनाद्भवति |
तत्र, वातवृद्धौ वाक्पारुष्यं [३३] कार्श्यं कार्ष्ण्यं गात्रस्फुरणमुष्णकामि(म)ता निद्रानाशोऽल्पबलत्वं [३४] गाढवर्चस्त्वं च; पित्तवृद्धौ पीतावभासता सन्तापः शीतकामित्वमल्पनिद्रता मूर्च्छा बलहानिरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च; श्लेष्मवृद्धौ शौक्ल्यं शैत