top of page

AIAPGET Notes on Sushruta Samhita Sutrasthana 1st Adhyaya- Vedotpattisdhyaya (१. वेदोत्पत्त्यध्यायः)

१. वेदोत्पत्त्यध्यायः


सहस्राक्षं [१] गणाधीशंस्वगुरुंचसरस्वतीम्|

जनकं जनयित्रींचशास्त्रादौप्रणमाम्यहम्||

समस्तजनपदतिलककल्पेश्रीभादानकदेशे नगरीवरमथुरासमीपे अङ्कोलानामकं वैद्यस्थानमस्ति| यत्र सौरवंशजा ब्राह्मणाः समस्तभूमिपतिमान्या अश्विनीकुमारसमानाः पार्वणचन्द्ररुचियशःप्रसाधितदिङ्मण्डलावैद्या अभूवन्| तदन्वये गोविन्दनामा चिकित्सकशिरोमणिरभूत्, ततस्तत्पुत्रो भिषक्शिरोमुकुटमणिर्जयपालः समजनि, तत्तनयश्च समस्तशास्त्रार्थतत्त्वज्ञोभरतपालः सञ्जातः, तत्पुत्रः स्वकुलनभस्तलचन्द्रमा [२] विवेकबृहस्पतिः श्रीसहपालदेवनृपतिवल्लभःश्रीडल्हणः समभूत्| तेन श्रीजेज्जटं टीकाकारं श्रीगयदासभास्करौ च पञ्जिकाकारौ श्रीमाधवब्रह्मदेवादीन्टीप्पनकारांश्चोपजीव्य, आयुर्वेदशास्त्रसुश्रुतव्याख्यानायनिबन्धसङ्ग्रहः क्रियते| यद्यपि सुश्रुतोपरि जेज्जटादिभिष्टीका रचिताः, तथाऽपि तासां कुशाग्रीयधियामभिगम्यत्वादल्पमेधसामनुग्रहायसुश्रुतं व्याख्यातुकामस्य मम प्रयासः सफलः|


अथातो वेदोत्पत्तिमध्यायं [३] व्याख्यास्यामः ||१||

यथोवाच भगवान्धन्वन्तरिः ||२||



अथातोवेदोत्पत्तिमध्यायं व्याख्यास्याम इति| ननु, कतमत् सूत्रमिदं? चतुर्विधानि हि सूत्राणि भवन्ति; तद्यथा- प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं, शिष्यसूत्रं, गुरुसूत्रं चेति| इह प्रतिसंस्कर्तृसूत्रं नास्त्येवेत्येके, अन्ये त्वस्तीतिभाषन्ते, यथा च तदस्ति तथेहैवनैकट्येन कथयिष्यामः; एकीयसूत्रं यथा- ‘तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषुमधुराम्ललवणकटुतिक्तकषायाणियथासङ्ख्यमुदकानि भवन्तीत्येके भाषन्ते’(सू. अ. ४५)- इति; शिष्यसूत्रं यथा- ‘वायोः प्रकृतिभूतस्य व्यापन्नस्य च लक्षणम्| स्थानंकर्म च रोगांश्च वदस्ववदतांवर’ (नि. अ. १)- इति; गुरुसूत्रं यथा- ‘देहे विचरतस्तस्य लक्षणानि निबोध मे’ (नि. अ. १)- इति; एवं सूत्राणामनेकत्वात् कस्येदं सूत्रम्? उच्यते- गुरोरेवैतत् सूत्रं, शिष्येण ग्रन्थं चिकीर्षता लिखितम्| अन्ये तु शिष्यस्यैवेदं सूत्रमित्याहुः, स त्वात्मशिष्येषु धन्वन्तरिप्रशिष्येषु प्रतिज्ञां कृतवान्; तन्नेच्छति गयी| किमेतत् स्वकपोलकल्पितं सुश्रुतेनोक्तम्, अथवा यथैव गुरुणोदीरितमिति पृष्टः प्रतिसंस्कर्ता सुश्रुतमुखेनेदमाह- यथोवाच भगवान् धन्वन्तरिरिति| इदं प्रतिसंस्कर्तृसूत्रं, यत्र यत्र परोक्षे लिट्प्रयोगस्तत्र तत्रैव प्रतिसंस्कर्तृसूत्रं ज्ञातव्यमिति; प्रतिसंस्कर्ताऽपीह नागार्जुन एव| अथशब्दोऽनन्तरार्थ एव| अतो युष्मच्छल्यतन्त्रोपदेशकामितादनन्तरम्| वेदोत्पत्तिमिति अस्यादौ आयुःशब्दो लुप्तो ज्ञेयः; तेन, आयुर्वेदोत्पत्तिमिति| उत्पत्तिरत्राभिव्यक्तिः, न त्वभूतप्रादुर्भावः| अधीयन्तेऽस्मिन्नर्था इत्यध्यायः| व्याख्यास्यामइति विर्विशेषे, आङ् अभिव्याप्तौ, व्याख्यास्यामः प्रकथयिष्यामः| अन्ये तु, अथशब्दः शिष्यप्रश्नानन्तर्ये [४] , अतःशब्दो हेत्वर्थः, यत एते शिष्याःप्रजाहितार्थमायुर्वेदंगुरुं पप्रच्छुः, अतो हेतोरित्यर्थः; अपरे तु विर्विविधप्रकारे, आङ् आभिमुख्ये, शेषं समम्| एतेनातः शल्यतन्त्रोपदेशकामितादनन्तरम्, आयुर्वेदाभिव्यक्तिमधिकृत्यकृतो योऽध्यायस्तं विशेषाभिव्याप्त्या प्रकथयिष्यामः| द्वितीयव्याख्यानपक्षेऽपीत्थंयोजनीयम्| यथोवाचेति यादृगुक्तवान्| भगवान् धन्वन्तरिरिति समस्तैश्वर्यमाहात्म्ययशःश्रीकामार्थप्रयत्नैर्युक्तो ‘भगवान्’ इत्युच्यते; अन्ये तु ज्ञानातिशयवान् पुरुषातिशयोभगवान्; अपरे तु, अष्टगुणैश्वर्यवानेवात्र भगवान्| अथात इत्यादिकं प्रतिज्ञासूत्रं यद्यप्यध्यायादौ लिखितं, तथऽपि ‘वत्स सुश्रुत’ (सू. अ. १, सू. अ. १४) इत्यनन्तरं द्रष्टव्यम्; अन्ये तु ‘अध्याप्याश्च भवन्तो वत्साः’ (सू. अ. १, सू. अ. ५) इत्यनन्तरं पठन्ति, तन्नेच्छति गयी| अत्र केचिद् ‘वेदोत्पत्तिं नामाध्यायं’ इतिपठन्ति||१-२||


अथ खलुभगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थंकाशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य(र)गोपुररक्षितसुश्रुतप्रभृतयऊचुः ||३||

Ou

Pou

Go

Vai

k


अथखल्वित्यादि| अथेति मङ्गलार्थः, तत्तु श्रोतृव्याख्यात्रोः क्रियाफलसिद्धिं कथयति| खलु वाक्यशोभार्थः, अन्ये तु निश्चयार्थः| अमरवरंदेवश्रेष्ठं, पूर्वजन्मन्यमृतोद्धरणात्; अन्ये तु ब्रह्मणोऽवतारत्वात्| ऋषिगणपरिवृतं देवर्षिब्रह्मर्षिराजर्षिसमूहैर्वेष्टितं, तपोज्ञानबाहुल्यादुपादेयवाक्यत्वाच्च| आश्रमस्थं वानप्रस्थाश्रमस्थम्, एतेन राज्यचिन्तापरित्यागादनाकुलचित्तत्वंराजर्षित्वं च सूचितम्| काशिराजंवाराणसीजनपदनृपतिं, काशिराजस्य निर्वाणपदाभिलाषित्वात्तत्पुत्रत्वमापन्नमितिकाशिराजम्| काशिराजानामनेकत्वाद्विशेषणमाह- दिवोदासम्|- दिवितिशब्देनात्र तत्स्थानदेवाः [५] कथ्यन्ते, तैःपूजाकाम्यया सम्प्रदीयते यस्मै स दिवोदासस्तम्; अन्येतु दास(श)ति कर्माणियत्नेन करोतीति दासः(शः), दिवः स्वर्गस्य दासो दिवोदास(श)स्तम्| सर्वजनप्रसिद्धंविशेषणमाह- धन्वन्तरिमिति|- धनुः शल्यशास्त्रं, तस्य अन्तं पारम् इयर्ति गच्छतीति धन्वन्तरिः [६] , तम्; अपरा व्युत्पत्तिर्विस्तरभयान्न लिखिता| औपधेनवादयः सुश्रुतान्ताः सप्त शिष्या ऊचुः उक्तवन्तः| प्रभृतिशब्देन भोजादयः| अन्ये तु ‘गोपुररक्षितौ’ इतिनामद्वयं मन्यन्ते, इत्यौपधेनवादयोऽष्टौ; प्रभृतिग्रहणान्निमिकाङ्कायनगार्ग्यगालवाः; एवमेतान् द्वादश शिष्यानाहुः| ननु, प्रश्नकर्तृतया सुश्रुतस्य मुख्यत्वादादावस्य नामग्रहणमुचितं स्यात्, कथमौपधेनवादिनामान्यादावुक्तानि? सत्यं, देवर्षयस्ते राजर्षीणां पूज्या इति न दोषः||३||


भगवन्! शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् [७] सनाथानप्यनाथवद्विचेष्टमानान्विक्रोशतश्चमानवानभिसमीक्ष्यमनसिनःपीडाभवति, तेषांसुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छामइहोपदिश्यमानम्, अत्रायत्तमैहिकमामुष्मिकंचश्रेयः; तद्भगवन्तमुपपन्नाःस्मःशिष्यत्वेनेति ||४||



ऋषयस्तेतं काशिराजं प्रति किमूचुरित्याह- भगवन्नित्यादि|- भगवन्निति सम्बोधने| तत्र शारीरा वातादिवैषम्यनिमित्ताः, मानसा रजस्तमःसम्भूताः कामादयः, आगन्तवो व्याघ्रादिकृताः शस्त्रादिकृताश्च| स्वाभाविकानामत्राग्रहणमस्मिञ्छास्त्रेतत्प्रतीकारस्याप्राधान्यसूचनार्थम्; अथवा ‘आत्मनश्च प्राणयात्रार्थं’ इत्यत्रैवावरोधाच्च, ऋषीणां हि शारीरमानसागन्तुव्याध्यसम्भवात् केवलं स्वाभाविकव्याधिनिषेधेनैव प्राणयात्राऽभिप्रेता| उपद्रुतान् उपसृष्टान्| सनाथानपि समित्रादिकानपि| अनाथवत् एकाकिजनवत्| विचेष्टमानान् विरुद्धां क्रियां कुर्वाणान्| एतेनायुर्वेदं विना मित्रादयोऽप्यनर्थका इति| विक्रोशतश्च विशेषादार्तस्वरै रुदतश्च| नः अस्माकम्| आत्मनश्चप्राणयात्रार्थं प्राणानामग्नीषोमादीनां यात्रार्थं व्यवहारार्थं स्वस्थवृत्तानुवर्तनार्थम्| अत्र केचित् ‘आत्मप्रजाहितहेतोः’ इतिपठन्ति| उपदिश्यमानं सङ्क्षेपतः कथ्यमानम्| अत्रायत्तमिति अत्रायुर्वेदोपदेशे, आयत्तं अधीनम्| ऐहिकम् इहलोकभवम्, आमुष्मिकं परलोकभवं, श्रेयः कल्याणलाभः| अर्थकामौ मित्रादिलाभो यशश्च ऐहिकं श्रेयः; स्वर्गादि विशिष्टं जन्मान्तरज्ञानादयश्च आमुष्मिकं श्रेयः, अमरत्वं च| तदिति हेतौ, यस्मादायुर्वेदोपदेशाद्विविधंश्रेय आयत्तं, तस्मात्; उपपन्नाः स्मः समीपमागताः स्मः; शिष्यत्वेन छात्रभावेनेति||४||


तानुवाच भगवान्- स्वागतंवः; सर्वएवामीमांस्याअध्याप्याश्चभवन्तोवत्साः ||५||



तेषामौपधेनवादीनांसमीपगतानां काशिराजेन किं कृतमित्याह- तानुवाच भगवानिति| स्वागतं शोभनमागतं, वः युष्माकम्| अमीमांस्याःअविचारणीयाः, प्रसिद्धजात्यादिवत्त्वात्| अध्याप्याश्च अध्यापनार्हाश्च| वत्सा इति पक्षपातातिशयत्वसूचकं सम्बोधनम्; अथवा वत्साः प्रथमवयसो गवां पुत्राः, वत्सा इव वत्साः; अनेनविशेषणेन प्रथमवयस्त्वं पुत्रसादृश्यं दमनीयत्वं च सूचयति||५||


इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव [८] प्रजाःश्लोकशतसहस्रमध्यायसहस्रं च कृतवान्स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणांभूयोऽष्टधा प्रणीतवान् ||६||



इदानीमायुर्वेदस्यसामान्यं लक्षणं दर्शयन्नाह- इह खल्वित्यादि|- इहखल्विति वाक्यालङ्कारे, वक्ष्यमाणं वाक्यमलङ्करोति; अन्ये तु इह मयिसूत्रकारे, खलु एवार्थः; एतेन मय्येव आयुर्वेदोऽष्टाङ्गो नान्येषु सूत्रकारेषु, अन्येषामेकैकस्यैवाङ्गस्य प्रणेतृत्वात्| इहेति वाक्योपक्रमे, खलु सम्बोधने, इत्यपरे| उपाङ्गम् अङ्गमेवाल्पत्वादुपाङ्गं; तद्यथा- देहस्य बाहुजङ्घे शिर इत्यङ्गानि, करचरणनासिकादीन्युपाङ्गानि, एतेनोपाङ्गमित्युक्तम्; उपाङ्गमङ्गसमीपमित्येके| अनुत्पाद्यैव प्रजाः लोकसृष्टेः प्राक्, आयुर्वेदं प्रदर्श्य प्रजाः पश्चात् सृष्टवानित्यर्थः| कृतवान् संस्कृतवान्, न तु पूर्वमुत्पादितवान्; कुतः? नित्यत्वात्| स्वयम्भूः ब्रह्मा| ततोऽल्पायुष्ट्वमिति ततः प्राक्तनकरणादनन्तरमधर्मप्रवृत्तौसत्याम्, अल्पायुष्ट्वम् अल्पजीवितत्वम्, अल्पमेधस्त्वं स्वल्पबुद्धित्वं, भूयः पुनः, अष्टधा अष्टभिः प्रकारैः||६||


तद्यथा- शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रं damstra-vag, visha-charaka, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ||७||

Ka sha sha vi bhu kou ra va- charaka

Sha shaa ka bhu kaou a ra vaa- Sushruta

Vag-



अथके तेऽष्टौ प्रकाराः? इत्याह- तद्यथेत्यादि| शल्यमिति शल्याहरणप्रधानं तन्त्रं शल्यतन्त्रम्| शलाकायाः कर्म शालाक्यं, तत्प्रधानं तन्त्रमपि शालाक्यम्| कायोऽत्राग्निरुच्यते, तस्य चिकित्सा कायचिकित्सा; अथवा कायो देहः, तस्य चिकित्सा कायचिकित्सा| भूतानि देवासुरगन्धर्वयक्षरक्षःपितृनागपिशाचाअष्टौ, तानि वेत्त्यनयेति भूतविद्या; अथवा भूतावेशापाकरणार्था विद्या भूतविद्या| कुमाराः बालाः, तेषां भृतिर्धारणं पोषणं च, तस्या भृत्याइदं तन्त्रमिति कौमारभृत्यम्| अगदो विषप्रतीकारः, तदर्थं तन्त्रमगदतन्त्रम्; अन्ये विषगरवैरोधिकसम्प्रयोगो गदः, गदस्याभावः अगदः, अगदाय तन्त्रमगदतन्त्रमित्याचक्षते| रसानां रसरक्तादीनामयनमाप्यायनं रसायनं, तदर्थं तन्त्रं रसायनतन्त्रम्; अथवा रसानां रसवीर्यविपाकादीनामायुःप्रभृतिकारणानामयनंविशिष्टलाभोपायो रसायनं, तदर्थं तन्त्रं रसायनतन्त्रम्| वाजीकरणतन्त्रमिति येन स्त्रीषु विषये वाजीव नरः सामर्थ्यं प्राप्नोति तद् वाजीकरणं, येनात्यर्थं व्यज्यते स्त्रीषु तद् वाजीकरणम्; अन्ये तु वजनं वाजोवेगः प्रकरणाच्छुक्रस्य [९] , स विद्यते येषांते वाजिनः, अवाजिनो वाजिनः क्रियन्तेऽनेनेति वाजीकरणम्; अन्ये तु वाजीशब्देन शुक्रमभिधीयते, तेन शुक्ररहितस्य वाजी शुक्रं क्रियतेऽनेनेति वाजीकरणं, तदर्थं तन्त्रं वाजीकरणतन्त्रम्| इतिशब्दोऽष्टाङ्गपरिसमाप्तौ||७||


अथास्य प्रत्यङ्गलक्षणसमासः [१०] |८|



अथेत्यादि|- अथेत्यानन्तर्ये, अस्य आयुर्वेदस्य, प्रत्यङ्गलक्षणसमासः एकमेकमङ्गं प्रति लक्षणसङ्क्षेपः|८|-


तत्र, शल्यंनामविविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं [११] , यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थंच (१) |८|



किंतदेकमेकमङ्गं प्रति लक्षणं सङ्क्षेपेणेत्याह- तत्रेत्यादि| तत्र तेष्वङ्गेषु| नामशब्दः प्रतिपादने, शल्यं प्रतिपाद्यते कथ्यत इत्यर्थः| विविधतृणादीनां पूयास्रावान्तानां दुष्टव्रणस्यान्तर्मध्यादुद्धरणार्थमुद्धरणप्रयोजनं, तथा गर्भशल्यस्यापि| उद्धरणार्थमित्यस्याग्रे ‘षष्ट्या विधानैः’ इति केचित् पठन्ति, व्याख्यानयन्ति च- अपतर्पणाद्यै रक्षाविधानान्तैर्द्विव्रणीयोक्तैरित्यर्थः| प्रणिधानार्थं निवेशनार्थम्| न केवलं काष्ठतृणादिशल्यं, किन्तु ‘‘अतिप्रवृद्धं मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम्| यत्किञ्चिदाबाधकरं शरीरे तत् सर्वमेव प्रवदन्ति शल्यम्’’- इति||८(१)||


शालाक्यं नामोर्ध्वजत्रुगतानांश्रवणनयनवदनघ्राणादिसंश्रितानांव्याधीनामुपशमनार्थम् (२) |८|



शालाक्यमित्यादि| जत्रु ग्रीवामूलम्, अन्ये वक्षोंऽससन्धिमाहुः| वदनमत्र मुखकुहरमाहुः| घ्राणादिसंश्रितानामित्यत्रआदिशब्दाच्छिरःकपालादिसंश्रितानाम्||८(२)||


कायचिकित्सा नामसर्वाङ्गसंश्रितानांव्याधीनांज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् (३) |८|



कायचिकित्सेत्यादि| केचिज्ज्वरानन्तरमतिसारंपठन्ति; तन्न, पञ्जिकया दूषितत्वात्||८(३)||


भूतविद्या नामदेवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसांशान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् (४) |८|



भूतविद्येत्यादि| असुराः दैत्याः, गन्धर्वा देवगायकाः, यक्षाः धनदादयः, रक्षांसि रावणप्रभृतीनि, पितरः अग्निष्वात्तादयः, पिशाचाः पिशिताशनाः; एते ग्रहणाद् ग्रहाः प्रोच्यन्ते| शान्तिकर्मबलिहरणादिग्रहोपशमनार्थंशान्तिकर्मादिभिरष्टग्रहोपशमनप्रयोजनम्||८(४)||


कौमारभृत्यं नामकुमारभरणधात्रीक्षीरदोषसंशोधनार्थंदुष्टस्तन्यग्रहसमुत्थानांचव्याधीनामुपशमनार्थम् (५) |८|



कौमारभृत्यमित्यादि| दुष्टस्तन्यग्रहसमुत्थानांचेति दुष्टस्तन्येन दुष्टग्रहेण च जातानामित्यर्थः; तत्र दुष्टस्तन्येनशारीराः, दुष्टग्रहेणागन्तवः||८(५)||


अगदतन्त्रं नामसर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं [१२] विविधविषसंयोगोपशमनार्थंच (६) |८|



अगदतन्त्रमित्यादि| कीटा वृश्चिकादयः; लूता मर्कटः, कीटभेदो वा| विविधविषसंयोगोपशमनार्थमितिविविधानां नानाप्रकाराणां स्थावरजङ्गमानां विषाणां, संयोगः सङ्गमः, तदुपशमाय| अन्ये तु ‘विविधविषसंयोगविषोपहतोपशमार्थंच’ इति पठन्ति| संयोगविषं समानमधुघृतादि||८(६)||


रसायनतन्त्रं नामवयःस्थापनमायुर्मेधाबलकरंरोगापहरणसमर्थंच (७) |८|



रसायनतन्त्रमित्यादि| वयःस्थापनं वर्षशतमायुःस्थापनम्| आयुष्करं शताधिकमपि करोति| अन्ये तु वयःस्थापनं जरापहरणं, तारुण्यं बहुकालं स्थापयतीत्यर्थः||८(७)||


वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं [१३] प्रहर्षजननार्थंच (८) ||८||



वाजीकरणतन्त्रमित्यादि| अल्परेतसः प्रकृत्यैव स्तोकरेतसः, तेषामाप्यायननिमित्तं; दुष्टरेतसो वातादिदुष्टरेतसः, तेषां प्रसादनिमित्तं; क्षीणरेतसः कारणैः स्वमानादल्पीभूतरेतसः, तेषामुपचयनिमित्तं; विशुष्करेतसः स्वमानादत्यर्थं क्षीणरेतसः, तेषां जनननिमित्तम्| अथवाऽल्परेतसः पञ्चविंशतिमप्राप्ताः, क्षीणरेतसस्तु मध्यवयसः कारणादल्पीभूतरेतसः, शुष्करेतसो वृद्धाः| प्रहर्षजननार्थं चेति स्वस्थस्य शुक्रवृद्धिस्रुतिकरणार्थं चेत्यर्थः||८(८)||


एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्रकस्मैकिमुच्यतामिति ||९||



एवमयमिति|- एवमनेन प्रकारेण| अत्रेति एषु मध्ये| किमङ्गं कस्मै शिष्यायोपदिश्यतां व्याख्यायताम्| इतिशब्दः सामान्येन||९||


त ऊचुः- अस्माकंसर्वेषामेवशल्यज्ञानंमूलंकृत्वोपदिशतुभगवानिति ||१०||

स उवाचैवमस्त्विति ||११||



तऊचुः ते शिष्या धन्वन्तरिंप्रति ऊचुः उक्तवन्तः| शल्यज्ञानं मूलं कृत्वा शल्यज्ञानमादौ कृत्वा| सः धन्वन्तरिः, उवाचउक्तवान्, एवमस्त्विति एवं भवत्विति| ‘स होवाच’ इति केचित् पठन्ति; तैः शिष्यैः सहेत्यर्थः||१०-११||


त ऊचुर्भूयोऽपिभगवन्तम्- अस्माकमेकमतीनांमतमभिसमीक्ष्यसुश्रुतोभगवन्तंप्रक्ष्यति, अस्मैचोपदिश्यमानंवयमप्युधारयिष्यामः ||१२||

स उवाचैवमस्त्विति ||१३||



प्रक्ष्यतिपृच्छां करिष्यति||१२-१३||


वत्स सुश्रुत! इहखल्वायुर्वेदप्रयोजनं- व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य रक्षणं [१४] च ||१४||



‘वत्ससुश्रुत’ इतिसम्बोधने| अस्याग्रे ‘अथात’ इत्यादिका प्रतिज्ञा ज्ञातव्येति पूर्वमेवोक्तम्| इह खल्वित्यधिकारे, इह खलुआयुर्वेदोत्पत्त्यधिकारेइत्यर्थः| व्याधिशब्दोऽयं दुष्टेषु वातादिषु, तत्कार्येषु ज्वरादिषु क्लेशेषु, रागादिषु दुःखेषु संसारानुवृत्तिजनकेषु च, वर्तते; परिमोक्षोनिवृत्तिः| ननु, व्याधिपरिमोक्षस्वस्थरक्षणाभ्यामन्यदपिप्रयोजनमस्ति, किं तत्? याप्यव्याधितरक्षा रसायनादायुरुत्कर्षश्च, तदिदं वक्तव्यम्; उच्यते- स्वस्थस्य रक्षणं चेति चकारोऽनुक्तसमुच्चयार्थः, तेन याप्यव्याधितरक्षणं रसायनादायुरुत्कर्षश्च; अथवा साध्यव्याधौ क्रियैकत्वाद् याप्यावरोधः, रसायनादायुरुत्कर्षस्तु स्वस्थरक्षयैव गृह्यते||१४||


आयुरस्मिन् विद्यते, अनेन वाऽऽयुर्विन्दन्ति’ इत्यायुर्वेदः ||१५||



आयुर्वेदस्यनिरुक्तिं दर्शयन्नाह- आयुरस्मिन्नित्यादि| आयुः शरीरेन्द्रियसत्वात्मसंयोगः, तदस्मिन्नायुर्वेदे विद्यते अस्तीत्यायुर्वेदः; अथवा आयुर्विद्यते ज्ञायते अनेनेत्यायुर्वेदः; आयुर्विद्यते विचार्यते अनेन वेत्यायुर्वेदः; आयुरनेन विन्दति प्राप्नोतीति वाऽऽयुर्वेदः||१५||


तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय [१५] ||१६||



तस्याङ्गवरमित्यादि|- अङ्गवरम् अङ्गश्रेष्ठम्| आद्यम् आदिभवम्| प्रत्यक्षागमानुमानोपमानैरविरुद्धमितिअनेन शल्येनाङ्गवरेण योऽर्थः प्रतिपाद्यते स खलु प्रत्यक्षादिभिरपितथाऽवगम्यत इत्यर्थः| प्रत्यक्षमिति यत्किञ्चिदेवार्थस्य साक्षात्कारिज्ञानं तदेव प्रत्यक्षं, तथाहि- “मनोऽक्षगतमभ्रान्तं वस्तु प्रत्यक्षमुच्यते| इन्द्रियाणामसञ्ज्ञानं वस्तुतत्त्वे भ्रमः स्मृतः”- इति; प्रत्यक्षाविरुद्धं यथा- सूर्यावलोकनान्नासान्तः सूत्रवर्तिप्रवेशनाच्च क्षुतः प्रादुर्भावः| आगमो वेदः, आप्तानां शास्त्रं वा; तथाहि- “सिद्धं सिद्धैः प्रमाणैस्तु हितं चात्र परत्र च| आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः”- इति; आगमाविरुद्धं यथा- पुराणादिष्वपि श्रूयते- “रुद्रेण यज्ञस्य शिरश्छिन्नमश्विभ्यां संहितम्” इति| आगमस्य प्रत्यक्षफलत्वाद् वरीयस्त्वं, तेनानुमानात् पूर्वं निर्दिष्टवान्| अनु पश्चादव्यभिचारिलिङ्गाल्लिङ्गीमीयते ज्ञायते येन तदनुमानं; तेनानुमानेनाविरुद्धं यथा- प्रनष्टे शल्ये चन्दनघृतोपदिग्धायां त्वचि विशोषणविलयनाभ्यामनुमीयते- अत्र शल्यमिति| प्रसिद्धसाधर्म्यात् सूक्ष्मव्यवहितविप्रकृष्टस्यार्थस्यसाधनमुपमानं; तेनाविरुद्धं यथा- माषवन्मषकः, तिलमात्रस्तिलकालकः, विदारीकन्दवद् विदारीरोगः, शालूकवत् पनसिकेत्यादि| उच्यमानम् उपदिश्यमानम्| मया धन्वन्तरिणेत्यर्थः||१६||


एतद्ध्यङ्गं प्रथमं, प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च |

श्रूयते हियथा- “रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवाअश्विनावभिगम्योचुः- भगवन्तौनःश्रेष्ठतमौयुवांभविष्यथः, भवद्भ्यांयज्ञस्यशिरः सन्धातव्यमिति |

तावूचतुरेवमस्त्विति |

अथ तयोरर्थेदेवाइन्द्रं यज्ञभागेनप्रासादयन् |

ताभ्यां यज्ञस्यशिरः संहितम्” इति ||१७||



शल्याङ्गस्याद्यत्वंप्रतिपादयन्नाह- एतद्धीत्यादि|- हिशब्दोऽवधारणे, एतेनैतदेवाङ्गं प्रथममाद्यं प्रधानं वा| कस्मात् प्रथमं? प्रागभिघातव्रणसंरोहात्|- शारीरव्याधीनां प्रागेव देवासुरसङ्ग्रामेऽभिघातव्रणोत्पत्तिः, तत्संरोहात्| द्वितीयहेतुमाह- यज्ञशिरःसन्धानाच्चेति| अत्रापि प्रागिति सम्बध्यते| अन्ये त्वत्र यज्ञशिरःसन्धानाच्चेति| अत्रापि प्रागिति सम्बध्यते| अन्ये त्वत्र ‘यज्ञप्रधानशिरःसन्धानाच्च’ इतिपठन्ति| यतः प्राग्यज्ञस्य प्रधानभूतस्य शिरसः सन्धानं तस्मादिदमाद्यम्| अत्रैव पारम्पर्योपदेशमाह- श्रूयते हीत्यादि यावत्संहितमिति| अत्र केचित् ‘संहितं’ इत्यत्र ‘सन्धितं’ इति पठन्ति||१७||


अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात्सर्वतन्त्रसामान्याच्च ||१८||Ref.



इदानींवरत्वे प्रतिज्ञातं हेतुं प्रतिपादयन्नाह- अष्टास्वित्यादि| एतदेवाधिकमिति एतदेवाधिकं नान्यच्छालाक्यादि| कस्मात्? आशुक्रियाकरणात्| कुतोऽस्य पुनराशुक्रियाकरणत्वं? यन्त्रादिप्रणिधानात्, न हि यन्त्रादिषुप्रणिधाने मन्दा क्रिया कर्तुं युक्ता, मन्दकारित्वे ह्यातुरस्य व्यापत्तिः स्यात्| वरत्वे द्वितीयं हेतुमाह- सर्वतन्त्रसामान्याच्च; शालाक्यादितन्त्रतुल्यत्वाच्च| ‘अधिकक्रियाकरणात्’ इतिकेचित् पठन्ति| अधिकक्रियाकरणमप्यस्य यन्त्रादिप्रणिधानात् सर्वतन्त्रसामान्याच्च हेतुभ्याम्| अन्ये तु वरत्वे आशुक्रियाकरणादितिहेतुत्रयमाहुः; आशुक्रियाकरणात् शीघ्रं छेदादिक्रियाकरणादिति व्याख्यानयन्ति||१८||


तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ||१९||



अतःशिष्योत्साहनाय यथाभूतां प्रशंसामाह- तदिदमित्यादि|- तदिदं शल्यतन्त्रं; शाश्वतम् अविनाशि, अथवा शाश्वतशब्देन मोक्षोऽभिधीयते, तत्सम्पादनाच्छाश्वतं; पुण्यं पुण्यहेतुत्वात्; स्वर्गस्य निमित्तं स्वर्गाय हितं वा स्वर्ग्यं; यशसोनिमित्तं यशसे हितं वा यशस्यम्; आयुषोनिमित्तमायुषे हितं वा आयुष्यं; वृत्तिकरंचेति निर्वाहकरम्||१९||


ब्रह्मा प्रोवाचततःप्रजापतिरधिजगे, तस्मादश्विनौ, अश्विभ्यामिन्द्रः, इन्द्रादहं, मयात्विहप्रदेयमर्थिभ्यःप्रजाहितहेतोः ||२०||



इदानींक्रमागतिं प्रतिपादयन्नाह- ब्रह्मा प्रोवाचेत्यादि| प्रोवाच प्रथमं कथितवान्| तस्मात् प्रजापतिरधिजगे इति प्रजापतिर्दक्षः, अधिजगे अधीतवान्| मया त्विहेति स्वर्गे ब्रह्मणैवार्थिभ्यः प्रथमं दत्तं, मया धन्वन्तरिणा पुनरिह मर्त्यलोके प्रदेयं प्रथमं दातव्यमिति||२०||


भवति चात्र-

अहं हिधन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् |

शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मिगांभूयइहोपदेष्टुम् ||२१||



अथकाशिराजः शिष्यप्रतीत्यर्थं श्लोकमा